|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.366. अध्यायः 366
Mahabharata - Shanti Parva - Chapter Topics
ब्राह्मणेन धर्मावगतये नागगृहंप्रति गमनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
ब्राह्मण उवाच। 12-366-0x(6659)(80609)
अतिभारोद्यतस्यैव भारावतरणं महत्।
पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम्॥ 12-366-1(80610)
अध्यक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम्।
तृषितस्येव पानीयं क्षुधार्तस्येव भोजनम्॥ 12-366-2(80611)
ईप्सितस्येव संप्राप्तिरर्थस्य समयेऽतिथे।
एपितस्यात्मनः काले बृद्धस्यैव सुता यथा॥ 12-366-3(80612)
मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम्।
प्रह्लादयति मां वाक्यं भवता यदुदीरितम्॥ 12-366-4(80613)
मनश्चक्षुरिवाकाशे पश्यामि विमृशामि च।
प्रज्ञानवचनाद्योयमुपदेशो हि मे कृतः॥ 12-366-5(80614)
वाढमेवं करिष्यामि यथा मे भाषते भवान्।
इमां हि रजनीं साधो निवसस्व मया सह॥ 12-366-6(80615)
प्रभाते यास्यति चवान्पर्याश्वस्तः सुखोपितः।
असौ हि भगवान्सूर्यो मन्दरश्मिरवाङ्भुखः॥ 12-366-7(80616)
भीष्म उवाच। 12-366-8x(6660)
ततस्तेन कृतातिथ्यः सोऽनिथिः शत्रुसूदन।
उवास किल तां रात्रिं सह तेन द्विजेन वै॥ 12-366-8(80617)
तत्वं च धर्मसंयुक्तं तयोः कथयतोस्तदा।
व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा॥ 12-366-9(80618)
ततः प्रभातसमये सोऽतिथिस्तेन पूजितः।
ब्राह्मणेन यथाशक्त्या स्वकार्यमभिकाङ्क्षता॥ 12-366-10(80619)
ततः स विप्रः कृतकर्मनिश्चयः
कृताभ्यनुज्ञः स्वजनेन धर्मकृत्।
यथोपदिष्टं भुजगेन्द्रसंश्रयं
जगाम काले सुकृतैकनिश्चयः॥ ॥ 12-366-11(80620)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट्ष्ट्यधिकत्रिशततमोऽध्यायः॥ 366॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-366-9 चतुर्थधर्मसंयुक्तमिति झ. पाठः। तत्र च र्थधर्मो मोक्षधर्मस्तेन संयुक्तामित्यर्थः॥ 12-366-11 संश्रयं गृहम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|